kalimah.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

pandit ganeshwar mishra – shree ram prath smaranam كلمات اغاني

Loading...

ॐ अथ

श्री रामप्रातःस्मरण

प्रातः स्मरामि रघुनाथमुखारविन्दं

मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगण्डं

कर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥

प्रातर्भजामि रघुनाथकरारविन्दं

रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद् राजसंसदि विभज्य महेशचापं

सीताकरग्रहणमङ्गलमाप सद्यः ॥२॥

प्रातर्नमामि रघुनाथपदारविन्दं

पद्माकुंशादिशुभरेखि सुखावहं मे।

योगीन्द्रमानसमधुव्रतसेव्यमानं

शापापहं सपदि गौतमधर्मपत्न्याः ॥३

प्रातर्वदामि वचसा रघुनाथनाम

वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा

प्रीत्या सहस्रहरिनामसमं जजाप ।।४।।

प्रातः श्रये श्रुतिनुतां रघुनाथमूर्ति

नीलाम्बुदोत्पलसितेतररत्ननीलाम्

आमुक्तमौक्तिकविशेषविभूषणाढ्यां

ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५

यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि

नित्यं प्रभातसमये पुरुषः प्रबुद्धः ।

श्रीरामकिङ्करजनेषु स एव मुख्यो

भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ ६॥

इति श्री

रामप्रातःस्मरण

सम्पूर्णम्

كلمات أغنية عشوائية

اهم الاغاني لهذا الاسبوع

Loading...