kalimah.top
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

pandit ganeshwar mishra – bilwashtakam كلمات اغاني

Loading...

अथ बिल्वाष्टकं

त्रिदलं त्रिगुणाकरं त्रिनेत्रं च त्रियायुधं । त्रिजन्मपापसंहारं ऐकबिल्वं शिवार्पणं ॥१॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिदैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणं ॥ २॥

अखंड बिल्वपत्रेण पूजिते नंदिकेश्वरे । शुद्ध्यंति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणं ॥ ३॥

शालिग्राम शिलामैकां विप्राणां जातु चार्पयेत् सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणं ॥४॥

दंतिकोटि सहस्राणि वाजपेय शतानि च । कोटिकन्या महादानं एकबिल्वं शिवार्पणं ॥५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियं । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणं ॥ ६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनं । अघोरपापसंहारं ऐकबिल्वं शिवार्पणं ॥७॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनं । प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणं ॥८॥

मूलतौ ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणं ॥९॥

बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ १०॥

हरि ॐ

كلمات أغنية عشوائية

اهم الاغاني لهذا الاسبوع

Loading...